संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

मां

माँ, माँ त्वम्  संसारस्य अनुपम् उपहार,
न त्वया सदृश्य कस्याः स्नेहम्,
करुणा-ममतायाः त्वम् मूर्ति,
न कोअपि कर्त्तुम् शक्नोति तव क्षतिपूर्ति।

तव चरणयोः मम जीवनम् अस्ति,
‘माँ’शब्दस्य महिमा अपार,
न माँ सदृश्य कस्याः प्यार,
माँ त्वम् संसारस्य अनुपम् उपहार।

~ केसिया कुन्जुमौन, दशवीं-बी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75

जय वृक्ष! जय वृक्ष

श्रूयताम् सर्वे वृक्षपुराणम्,
क्रियताम् तथा वृक्षारोपणम्।
वृक्षस्यास्ति सुन्दरम् याति मूलं बहुदूरम्।।

मूलेपी अन्नम्, तस्य काष्ठं कठिनम्,
काष्ठं कठिनं भवति इन्धनार्थम्।
पर्णेषु भवति हरितद्रव्यम्,
अतो हि अस्ति रे पर्ण हरितम्।।

पुष्पम् सुन्दरम्, अतीव मोहकम्,
पुष्पम् तस्य भवति रे देवपूजार्थम्।
फलम् रसमयं, तस्य फलं स्वादपूर्णम्,
फलम् हि अस्ति रे खगस्य अन्नम्।।

जलवातप्रकाशैः निर्माति अन्नम्,
तेन हि अन्नेन वर्धते नित्यम्।
वृक्षस्य दृश्यताम् सर्वम् हि कार्यम्,
जीवनं तस्यास्ति परोपकारार्थम्।।

वृक्षे हि कुर्वन्ति विहगाः नीडम्,
केचित् तु कुर्वन्ति काष्ठे हि छिद्रम्।
आतपे तिष्ठति वर्षानुवर्षम्,
अन्येषां करोति छायाप्रदानम्।।

वृक्षो नैव अत्ति रे स्वकीयं फलम्,
सर्वम् हि अंगम् तस्य लोकहितार्थम्।
जनाः न स्मरन्ति तस्य उपकारम्,
बहुधा कुर्वन्ति वृक्षच्छेदनम्।।

मास्तु रे मास्तु ईदृशं पापं,
यथाशक्ति क्रियताम् वृक्षारोपणम्।
नैव रे नैवास्तु वृक्षकर्तनम्’,
सर्वे हि कुर्वन्तु तद्संवर्धनम्।।

~ मेहुल खन्ना, आठवीं-सी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75

कः किम् कर्त्तुम् न शक्तः

अन्धः किमपि न द्रष्टुम् शक्तः
पंगुः क्वापि न चलितुम् शक्तः।
मूकः किमपि न वक्तुम् शक्तः
बधिरः श्रोतुम् भवत्यशक्तः।।

मूढः बोद्धूम् न भवति शक्तः
न चापि भीरुः योद्धुम् शक्तः।
शयने रोगी भावत्यशक्तः
दीनः किमपि न दातुम् शक्तः।।

वृद्धः न भारं वोढुम् शक्तः
ईर्ष्युः कमपि न सोढुम् शक्तः।
नैव धावितुम् स्थूलः शक्तः
लोभी शान्त्या स्वपितुमशक्तः।।

अलसः मूर्खः निद्रायुक्तः
कार्यम् किमपि न कर्तुम शक्तः।
सदैव मिथ्याचरणे शक्तः
नैव स सत्यं द्रष्टुम् शक्तः।।

~ दीक्षा, सातवीं-सी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75

एहि एहि वीर रे

एहि एहि वीर रे
वीरतां विधेहि रे
पदं हदं निधेहि रे
भारतस्य रक्षणाय
जीवनं प्रदेहि रे।।

त्वं हि मार्गदर्शकः
त्वं हि देशरक्षकः
त्वं हि शत्रुनाशकः
कालनाग तक्षकः।।

साहसी सदा भवेः
वीरतां सदा भजेः
भारतीय-संस्कृतिं
मानसे सदा धरेः।।

पदं पदं मिलच्चलेत्
सोत्साहं मनो भवेत्
भारतस्य गौरवाय
सर्वदा जयो भवेत।।

~ यातिका मल्होत्रा, दसवीं-बी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75

Check Also

Independence Day of India

Independence Day of India (An Acrostic): Dr John Celes

Independence Day of India: Indian nationalism developed as a concept during the Indian independence movement …